हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Subrahmanya Hrudaya Stotram – श्री सुब्रह्मण्य हृदय स्तोत्रम्


अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामन्त्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
सुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः ।
षण्मुखाय तर्जनीभ्यां नमः ।
शक्तिधराय मध्यमाभ्यां नमः ।
षट्कोणसंस्थिताय अनामिकाभ्यां नमः ।
सर्वतोमुखाय कनिष्ठिकाभ्यां नमः ।
तारकान्तकाय करतलकरपृष्ठाभ्यां नमः ॥

हृदयादि न्यासः –
सुब्रह्मण्याय हृदयाय नमः ।
षण्मुखाय शिरसे स्वाहा ।
शक्तिधराय शिखायै वषट् ।
षट्कोणसंस्थिताय कवचाय हुम् ।
सर्वतोमुखाय नेत्रत्रयाय वौषट् ।
तारकान्तकाय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥

लमित्यादि पञ्चपूजां कुर्यात् ।

पीठिका ।
सत्यलोके सदानन्दे मुनिभिः परिवेष्टितम् ।
पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ १ ॥

भगवन् सर्वलोकेश सर्वज्ञ कमलासन ।
सदानन्द ज्ञानमूर्ते सर्वभूतहिते रत ॥ २ ॥

बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् ।
हृदयं श्रोतुमिच्छामः तस्यैव क्रौञ्चभेदिनः ॥ ३ ॥

ब्रह्मोवाच ।
शृण्वन्तु मुनयः सर्वे गुह्याद्गुह्यतरं महत् ।
सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ ४ ॥

सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् ।
धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ ५ ॥

रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् ।
सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ ६ ॥

प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा ।
हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ ७ ॥

अथ हृदयम् ।
सुवर्णमण्डपं दिव्यं रत्नतोरणराजितम् ।
रत्नस्तम्भसहस्रैश्च शोभितं परमाद्भुतम् ॥ ८ ॥

परमानन्दनिलयं भास्वत्सूर्यसमप्रभम् ।
देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः । ॥ ९ ॥

सेवार्थमागतैः सिद्धैः साध्यैरध्युषितं सदा ।
महायोगीन्द्रसंसेव्यं मन्दारतरुमण्डितम् ॥ १० ॥

मणिविद्रुमवेदीभिर्महतीभिरुदञ्चितम् ।
तन्मध्येऽनन्तरत्न श्रीच्छटामण्डलशोभितम् ॥ ११ ॥

रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् ।
सर्वाश्चर्यमयं पुण्यं सर्वतः सुपरिष्कृतम् ॥ १२ ॥

तन्मध्येऽष्टदलं पद्मं उद्यदर्कप्रभोदयम् ।
निगमागमरोलम्बलम्बितं चिन्मयोदयम् ॥ १३ ॥

दिव्यं तेजोमयं दिव्यं देवताभिर्नमस्कृतम् ।
देदीप्यमानं रुचिभिर्विशालं सुमनोहरम् ॥ १४ ॥

तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वाङ्गसुन्दरम् ।
अनन्तादित्यसङ्काशं आश्रिताभीष्टदायकम् ॥ १५ ॥

अचिन्त्यज्ञानविज्ञानतेजोबलसमन्वितम् ।
सर्वायुधधरं दिव्यं सर्वाश्चर्यमयं गुहम् ॥ १६ ॥

महार्ह रत्नखचित षट्किरीटविराजितम् ।
शशाङ्कार्धकलारम्य समुद्यन्मौलिभूषणम् ॥ १७ ॥

मदनोज्ज्वलकोदण्डमङ्गलभ्रूविराजितम् ।
विस्तीर्णारुणपद्मश्री विलसद्द्वादशेक्षणम् ॥ १८ ॥

चारुश्रीवर्णसम्पूर्णमुखशोभाविभासुरम् ।
मणिप्रभासमग्रश्रीस्फुरन्मकरकुण्डलम् ॥ १९ ॥

लसद्दर्पणदर्पाढ्य गण्डस्थलविराजितम् ।
दिव्यकाञ्चनपुष्पश्रीनासापुटविराजितम् ॥ २० ॥

मन्दहासप्रभाजालमधुराधर शोभितम् ।
सर्वलक्षणलक्ष्मीभृत्कम्बुकन्धर सुन्दरम् ॥ २१ ॥

महानर्घमहारत्नदिव्यहारविराजितम् ।
समग्रनागकेयूरसन्नद्धभुजमण्डलम् ॥ २२ ॥

रत्नकङ्कणसम्भास्वत्कराग्र श्रीमहोज्ज्वलम् ।
महामणिकवाटाभवक्षःस्थलविराजितम् ॥ २३ ॥

अतिगाम्भीर्यसम्भाव्यनाभीनवसरोरुहम् ।
रत्नश्रीकलिताबद्धलसन्मध्यप्रदेशकम् ॥ २४ ॥

स्फुरत्कनकसंवीतपीताम्बरसमावृतम् ।
शृङ्गाररससम्पूर्ण रत्नस्तम्भोपमोरुकम् ॥ २५ ॥

स्वर्णकाहलरोचिष्णु जङ्घायुगलमण्डलम् ।
रत्नमञ्जीरसन्नद्ध रमणीय पदाम्बुजम् ॥ २६ ॥

भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् ।
कटाक्षैः करुणादक्षैस्तोषयन्तं जगत्पतिम् ॥ २७ ॥

चिदानन्दज्ञानमूर्तिं सर्वलोकप्रियङ्करम् ।
शङ्करस्यात्मजं देवं ध्यायेच्छरवणोद्भवम् ॥ २८ ॥

अनन्तादित्यचन्द्राग्नि तेजः सम्पूर्णविग्रहम् ।
सर्वलोकैकवरदं सर्वविद्यार्थतत्त्वकम् ॥ २९ ॥

सर्वेश्वरं सर्वविभुं सर्वभूतहिते रतम् ।
एवं ध्यात्वा तु हृदयं षण्मुखस्य महात्मनः ॥ ३० ॥

सर्वान्कामानवाप्नोति सम्यक् ज्ञानं च विन्दति ।
शुचौ देशे समासीनः शुद्धात्मा चरिताह्निकः ॥ ३१ ॥

प्राङ्मुखो यतचित्तश्च जपेद्धृदयमुत्तमम् ।
सकृदेव मनुं जप्त्वा सम्प्राप्नोत्यखिलं शुभम् ॥ ३२ ॥

इदं सर्वाघहरणं मृत्युदारिद्र्यनाशनम् ।
सर्वसम्पत्करं पुण्यं सर्वरोगनिवारणम् ॥ ३३ ॥

सर्वकामकरं दिव्यं सर्वाभीष्टप्रदायकम् ।
प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् ॥ ३४ ॥

गुह्याद्गुह्यतरं भूयो देवानामपि दुर्लभम् ।
इदं तु नातपस्काय नाभक्ताय कदाचन ॥ ३५ ॥

न चाशुश्रूषवे देयं न मदान्धाय कर्हिचित् ।
सच्छिष्याय कुलीनाय स्कन्दभक्तिरताय च ॥ ३६ ॥

सतामभिमतायेदं दातव्यं धर्मवर्धनम् ।
य इदं परमं पुण्यं नित्यं जपति मानवः ।
तस्य श्री भगवान् स्कन्दः प्रसन्नो भवति ध्रुवम् ॥ ३७ ॥

इति श्रीस्कान्दपुराणे सुब्रह्मण्यहृदयस्तोत्रम् ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.